वांछित मन्त्र चुनें

स॒स्थावा॑ना यवयसि॒ त्वमेक॒ इच्छ॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑: । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥

अंग्रेज़ी लिप्यंतरण

sasthāvānā yavayasi tvam eka ic chacīpata indra viśvābhir ūtibhiḥ | mādhyaṁdinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ ||

पद पाठ

स॒ऽस्थावा॑ना । य॒व॒य॒सि॒ । त्वम् । एकः॑ । इत् । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥ ८.३७.४

ऋग्वेद » मण्डल:8» सूक्त:37» मन्त्र:4 | अष्टक:6» अध्याय:3» वर्ग:19» मन्त्र:4 | मण्डल:8» अनुवाक:5» मन्त्र:4